अथ बृहस्पति कवचम्
अभीष्टफलदं देवं सर्वज्ञ सुरपूजितम् ।
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ।।1 ||
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः |
कर्णी सुरगुरुः पातु नेत्रे मेऽभीष्टदायकः ।।2 ||
जिह्वां पातु सुराचार्यों नासां मे वेदपारगः ।
मुखं मे पातु सर्वज्ञो कण्ठं मे देवतागुरुः ||3||
भुजावाङ्गिरसः पातु करौ पातु शुभप्रदः |
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः । 4 ।।
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः ।
कटिं पातु जगद्वन्द्य ऊरू मे पातु वाक्पतिः । 15 ||
जानुजचे सुराचार्यो पादौ विश्वात्मकस्तथा।
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ।।6 ||
इत्येतत् कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः ।
सर्वान्कामानवाप्नोति सर्वत्र विजयी भवेत् ।।7 ||