समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् |1|
शशी एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।
पातु शिरोदेशं भालं पातु कलानिधिः |।2।|
चक्षुषी चन्द्रमा पातु श्रुती पातु निशापतिः |
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः |।3।|
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ।
करौ सुधाकरः पातु वक्षः पातु निशाकरः |।4।|
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ।
मध्यं पातु सुरश्रेष्ठ: कटिं पातु सुधाकरः |।5।|
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ।
अब्धिजः पातु मे जो पातु पादौ विधुः सदा |।6।|
सर्वाण्यन्यानि चाङ्गानि पातु चन्दोऽखिलं वपुः ।
एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम् ।
यः पठेच्छृणुयाद्वाऽपि सर्वत्र विजयी भवेत् । ।7 ||