अथ केतुकवचम्

केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ।।1 ||

चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः।।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ।।2 ||

घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ।।3 ||

हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः । 4 ||

ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः ।
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः । 5 | |

य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ।6 ।

। इति श्री ब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् | |



DOWNLOAD