अथ मंगलकवचम्
रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।
धरासुतः शक्तिधरश्च शूलो सदा मम स्याद्वरदः प्रशान्तः । ।1 ||
अङ्गारकः शिरो रक्षोन्मुखं वै धरणीसुतः ।
श्रवौ रक्ताम्बरः पातु नेत्रे मे रक्तलोचनः ||2||
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः।
भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ।।3 ||
वक्षः पातु वराङ्गश्च हृदयं पातु रोहितः ।
कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ।।4 |
जानुजचे कुजः पातु पादौ भक्तप्रियः सदा।
सर्वाण्यन्यानि चाङ्गानि रक्षेन्मे मेषवाहनः ।।5 | |
य इदं कवचं दिव्यं सर्वशत्रुनिवारणम् ।
भूतप्रेतपिशाचानां नाशनं सर्वसिद्धिदम् ।।6 ||
सर्वरोगहरं चैव सर्वसम्पत्प्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्य-वर्धनम् ।
रोगबन्धविमोक्षं च सत्यमेतन्न संशयः । ।7 |