अथ राहुकवचम्
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सैंहिकेयं करालास्यं लोकानामभयप्रदम् ।।1।।
नीलाम्बरः शिरः पातु ललाटे लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धं शरीरवान् । ।2 | |
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घिकः ।।3 ||
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः | |4 ||
कटिं मे विकट: पातु ऊरु मे सूरपूजितः ।
स्वभानुर्जानुनी पातु जो मे पातु जाड्यहा ।।5 ||
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।
सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः । 6 ||
राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायुरारोग्यमात्मविजयं च हि तत्प्रसादात् । ।7 ||