अथ शनिकवचम्
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद्वरदः प्रशान्तः ||1||
शृणुध्वमृषयः सर्वे शनिपीड़ाहरं महत् ।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् । ।2 ||
कवचं देवतावासं वज्रपञ्जरसंज्ञकम्।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ।।3 ||
ओम् श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।
छायात्मजः पातु पातु कर्णौ यमानुजः ।।4||
नासां वैवस्वतः पातु मुखं मे भास्करः सदा।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ।।5।।
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षि पात्वसितस्तथा।।6 ||
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा।
ऊरू ममान्तकः पातु यमो जानुयुगं तथा । |7 ||
पादौ मन्दगतिः पातु सर्वाङ्गम् पातु पिप्पलः ।
अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनन्दनः । ।8 ||
|| इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः ।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः । 19 ।।
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोऽपि वा।
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः । |10 | |
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे।
कवचं पठते नित्यं न पीडा जायते क्वचित् | |11 ||
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा।
द्वादशाष्टमजन्मस्थ दोषान्नाशयते सदा।
जन्मलग्नस्थितान्दोषान्सर्वान्नाशयते प्रभुः । |12||