अथ शुक्रकवचम्
मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम्
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत् कविं वांछितमर्थसिद्धये ।।1 ||
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः । ।2 ||
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् । 3 ।।
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः |
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ||4 ||
कटिं मे पातु विश्वात्मा ऊरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जो ज्ञानवतां वरः ।।5 ||
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः |
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ।।6 |
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ।।7 ||